Follow by Email

Saturday, October 24, 2015

Bhartruhari's Shatakas-24

भर्तृहरिशतकत्रयी-२४

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैः
अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ नी-६७ ॥
अ: इतः केशवः स्वपिति, इतः तदीय-द्विषां कुलम्, इतः च शरण-अर्थिनां गणाः शेरते, इतः अपि समस्त-संवर्तकैः सह वडवानलः, सिन्धोः वपुः विततम्,ऊर्जितं, भर-सहं च, अहो ।
 Here sleeps Vishnu, here the family of his enemies, here sleep those who seek his shelter, here is the sub-oceanic fire Vadava along with the world-annihilating fires; how wide, energetic and capable of bearing load the body of the ocean is!

जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
सञ्जातव्यर्थपक्षाः परहितकरणे नोपरिष्ठाच्च चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ नी-६८ ॥
अ: सः कूर्मः येन पृष्ठं पृथु-भुवन-भराय अर्पितम् एकः ; यत्र तेजस्वि-चक्रं नियमितं भ्रमति ध्रुवस्य जन्म श्लाघ्यम्; अपरे जन्तवः पर-हित-करणे सञ्जात-व्यर्थ-पक्षाः, न उपरिष्ठात्, न च अधः ब्रह्माण्ड-उदुम्बर-अन्तः-मशकवत् ।
There was only one tortoise whose back was dedicated to carrying the weight of the heavy earth; the life of Dhruva is indeed laudable around whom the bright stars revolve regularly; others are neither above nor below like flies in Udumbara (native fig) fruit-like universe being of no use in helping others.

तृष्णां छिन्दि भज क्षमां जहि मदं पापे मतिं मा कृथाः ।
सत्यं बृह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥ नी-६९ ॥
अ: तृष्णां छिन्दि, क्षमां भज, मदं जहि, पापे मतिं मा कृथाः, सत्यं ब्रूहि, साधु-पदवीम् अनुयाहि, विद्वत्-जनं सेवस्व, मान्यान् मानय, विद्विषः अपि अनुनय, प्रश्रयं प्रख्यापय, कीर्तिं पालय, दुःखिते दयां कुरु, एतत् सतां चेष्टितम् ।
Cut asunder greed, be forgiving, destroy haughtiness, do not indulge in sins, be truthful, follow leading saints, serve scholars, respect those worthy of respect, get along with even your adversaries, spread civility, protect your fame,  show compassion towards those grieved. This is the conduct of persons of virtue.
--
विरमत बुधा योषिसङ्गात्सुखात्क्षणबन्धुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथ वा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ शृ-६७ ॥
अ: बुधाः, अथ क्षण-बन्धुरात् सुखात् योषित्-सङ्गात् विरमत, करुणा-मैत्री-प्रज्ञा-वधूजन-सङ्गमं कुरुत, नरके हार-आक्रान्तं घन-स्तन-मण्डलं रणन्-मणि-मेखलं श्रोणी-बिम्बं न खलु वा शरणम् ।
Scholars! Stop being in the company of ladies which gives momentary pleasure, cultivate the company of ladies called Compassion, Friendship and Knowledge, you cannot take refuge in ladies of heavy breasts pressed by garlands and hips with jingling waist band when you land in hell.

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोः
अविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ।
प्रियाणामालापैरधरमधुभिर्वक्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ शृ-६८ ॥
अ: यदा (यस्य) योग-अभ्यास-व्यसन-कृशयोः आत्म-मनसोः  अविच्छिन्ना मैत्री स्फुरति, तस्य कृतिनः तैः प्रियाणाम् आलापैः वक्र-विधुभिः अधर-मधुभिः, स-निश्वास-आमोदैः स-कुच-कलश-आश्लेष-सुरतैः किमु?
For those successful persons,  in whom  there sparkles a continuous union between the soul and the mind weakened by the practice of Yoga, of what use is chatting with loving ladies who have honey in their moon-like lips, enjoying the fragrance of their breath and having amorous pleasures of embracing pot-like breasts?   

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ शृ-६९ ॥
अ: यदा स्मर-तिमिर-सञ्चार-जनितं अज्ञानम् आसीत् तदा इदम् अशेषं जगत् नारीमयं दृष्टम्,इदानीं पटुतर-विवेक-अञ्जन-जुषाम् अस्माकं दृष्टिः समीभूता, त्रिभुवनम् अपि ब्रह्म मनुते ।
When there was ignorance caused by the passage of darkness called Cupid this whole world looked full of ladies; now that our vision is upright having the collyrium of discriminatory knowledge we consider all the three worlds to be Brahman.
--
प्राप्ताः श्रियः सकलकामदुघास्ततः किम्
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किम्
कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ वै-६७ ॥
अ: सकल-काम-दुघाः श्रियः प्राप्ता:, ततः किम्? विद्विषतां शिरसि पदं न्यस्तं, ततः किम्? विभवैः प्रणयिनः सम्पादिताः, ततः किम्? तनुभृतां तनवः कल्प-स्थिताः, ततः किम्?
Wealth which provides for every type of desires has been obtained, so what? Foot has been placed on the heads of adversaries, so what? Lovers have been acquired by my wealth, so what? Bodies of persons are going remain for aeons, so what?

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतःपरमर्थनीयम् ॥ वै-६८ ॥
अ: भवे भक्तिः, मरण-जन्म-भयं हृदिस्थं, बन्धुषु न स्नेहः, मन्मथ-जाः विकाराः न,संसर्ग-दोष-रहिताः विजनाः वनान्ताः, वैराग्यम् अस्ति (चेत्) अतः परं अर्थनीयं किम्?
Devotion to Lord Siva, fear of death and birth in the heart, not being attached to kith and kin, not having feelings caused by Cupid, inclination to living in lonely forest lands and detachment; if these are there, where is the need for anything else?

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ वै-६९ ॥
अ: तस्मात् अनन्तम् अजरं परमं विकासि तत् ब्रह्म चिन्तय यस्य इमे अनुषङ्गिणः भुवन-आधिपत्य-भोग-आदयः कृपण-लोक-मताः भवन्ति, एभिः असत्-विकल्पैः किं (कार्यम्)?

Therefore meditate on that Brahman, which is endless, ever expanding, and never ageing for which these lordship over earth, pleasures etc. become worthless consequences. For what purpose are these unreal alternatives? 
- - - - 

No comments:

Post a Comment