Saturday, November 28, 2015

Bhartrhari's Shatakas-29

भर्तृहरिशतकत्रयी-२९

भग्नाशस्य करण्डपिण्डिततनोर्म्लानेन्द्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्ते मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरमसौ तेनैव यातः पथा
स्वस्थास्तिष्ठत दैवमेव हि परं वृद्धौ क्षये कारणम् ॥ नी-८२ ॥
अ: आखुः (करण्डस्य) विवरं कृत्वा भग्न-आशस्य करण्ड-पिण्डित-तनोः क्षुधा म्लान-इन्द्रियस्य भोगिनः मुखे स्वयं निपतितः । असौ (भोगी) तत्-पिशितेन तृप्तः तेन एव पथा सत्वरं यातः । स्वस्थाः तिष्ठत । वृद्धौ क्षये हि दैवम् एव परं कारणम् ।
After making a hole in the basket a mouse falls into the mouth of a snake which has its body curled into a heap in the basket and whose senses are weakened because of hunger. The snake having had a satisfying meal of the mouse gets out of the same hole quickly. You people! Keep quiet.  Fate is the only cause for growth or decay.

यथा कन्दुकपातेनोत्पतत्यार्यः पतन्नपि ।
तथा त्वनार्यः पतति मृत्पिण्डपतनं यथा ॥ नी-८३ ॥
अ: आर्यः पतन् अपि कन्दुकपातेन यथा उत्पतति, अनार्यः तु मृत्-पिण्ड-पतनं यथा तथा पतति ।
A gentleman bounces back like a ball after a fall. An uncultured person falls down like a heap of mud (never to bounce back).

खल्वाटो दिवसेश्वरस्य किरणैः सन्तापिते मस्तके
गच्छन्देशमनातपं द्रुतगतिस्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र दैवहतकस्तत्रैव यान्त्यापदः ॥ नी-८४ ॥
अ: खल्वाटः मस्तके दिवस-ईश्वरस्य किरणैः सन्तापिते, द्रुत-गतिः अनातपं देशं गच्छन् तालस्य मूलं गतः । तत्र अपि अस्य शिरः पतता महा-फलेन सशब्दं भग्नम् । प्रायः यत्र दैव-हतकः गच्छति तत्र एव आपदः यान्ति ।
A bald person, with his head burning due to the heat of the sun, seeks a shady place and quickly goes to the base of a pine tree. There his head gets broken by a falling big pine fruit. Perhaps misfortune follows an unfortunate person wherever he goes.
--
मधुरयं मधुरैरपि कोकिला-
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ शृ-८२ ॥
अ: अयं मधुः मधुरैः कोकिला-कल-रवैः मलयस्य वायुभिः अपि विरहिणः शरीरिणः प्रहिणस्ति । विपदि सुधा अपि विषायते, हन्त ।
This spring time hits the separated lovers with the pleasant indistinct singings of the cuckoo and the wind blowing from Malaya mountain. Alas! Even ambrosia turns poison in times of distress.

आवासः किलकिञ्चितस्य दयिताः पार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सितांशोः कराः
केषाञ्चित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः स्रजः ॥ शृ-८३ ॥
अ: अत्र चैत्रे किलकिञ्चितस्य आवासः, पार्श्वे विलास-अलसाः दयिताः, कर्णे कोकिल-कामिनी-कल-रवः स्मेरः लता-मण्डपः, कतिपयैः सत्-कविभिः समं गोष्ठी, सितांशोः मुग्धाः कराः, विचित्राः स्रजः केषाञ्चित् हृदयं सुखयन्ति ।
 Amorous display of emotions at home, beloveds tired of amorous activities by the side, the sweet tones of the female cuckoo to hear, vine- bower  full of laughter, meeting with a few reputed poets, colourful garlands, all these do bring happiness to the heart s of some people.

पान्थस्त्रीविरहानलाहुतिकलामातन्वती मञ्जरी
माकन्देषु पिकाङ्गनाभिरधुना सोत्कण्ठमालोक्यते ।
अल्पास्ते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्ति क्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ श्रृ-८४ ॥
अ : अधुना माकन्देषु पान्थ-स्त्री-विरह-अनल-आहुति-कलाम् आतन्वती मञ्जरी पिक-अङ्गनाभिः स-उत्कण्ठम् आलोक्यते । नव-पाटला-परिमल-प्राग्भार-पाटच्चराः क्लान्ति-वितान-तानव-कृतः ते अल्पाः श्रीखण्ड-शैल-अनिलाः वान्ति ।
Female cuckoos  longingly look at the cluster of mango blossoms which act as offerings to the fire of separation felt by ladies whose husbands are away on travel. Mild winds blow from Srikhanda mountain which are prone to steal the fragrance of fresh Patala flowers and which diminish the spread of weariness.

--
यदेततस्वच्छन्दं विहरणमकार्पण्यमशनं
सहार्यैः संवासः श्रुतमुपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्
न जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ वै-८२ ॥
अ: एतत् स्व-छन्दं विहरणम्, अ-कार्पण्यम् अशनम्, आर्यैः सह संवासः, उपशम-एक-व्रत-फलं श्रुतं, मनः बहिः अपि मन्द-स्पन्दं, चिरस्य विमृशन् अपि कस्य उदारस्य तपसः एषा परिणतिः न जाने ।
I do not know what type of penance results in this type of maturity: care-free wandering, food without the need to feel humble, living among the virtuous, sacred knowledge with the sole purpose of mental tranquillity, internally and externally very little wavering.

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्च वन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तोऽक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्या गतिः ॥ वै-८३ ॥
अ:  मनोरथाः च हृदये एव जीर्णाः, तत् यौवनं च यातं, गुणाः च गुणज्ञैः विना अङ्गेषु वन्ध्य-फलतां याताः, हन्त । किं युक्तम्? । अक्षमी बलवान् कालः कृतान्तः सहसा अभ्युपैति । हा, ज्ञातम्, मदन-अन्तक-अङ्घ्रि-युगलं मुक्त्वा अन्या गतिः न अस्ति ।
 Our yearnings have aged and weakened in the heart only, that youth is gone, due to lack of discerning people good qualities have been in vain, alas, the unforgiving powerful God of death quickly approaches. Yes, I know, there is no other go than seeking the feet of Shiva who annihilated the Love God.

महेश्वरे वा जगतामधीश्वरे
जनार्दने वा जगदन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे  ॥ वै-८४ ॥
अ: जगताम् अधीश्वरे महेश्वरे वा जगत्-अनतर्-आत्मनि जनार्दने वा मे वस्तु-भेद-प्रतिपत्तिः न अस्ति, तथा अपि भक्तिः तरुण-इन्दु-शेखरे (अस्ति ) ।

I do not recognize any difference between Mahesvara who is the over lord of all the worlds and Vishnu who is the inner soul of the worlds. Even then my devotion is to Shiva with the young moon on his crest.
- - - - 

Saturday, November 21, 2015

Bhartrhari's Shatakas-28

भर्तृहरिशतकत्रयी-२८

छिन्नोऽपि रोहति तरुः क्षीणोऽप्युपचीयते पुनश्चन्द्रः ।
इति विमृशन्तः सन्तः सन्तप्यन्ते न लोकेषु ॥ नी-७९ ॥
अ: सन्तः “तरुः छिन्नः अपि रोहति, चन्द्रः क्षीणः अपि पुनः उपचीयते” इति विमृशन्तः लोकेषु न सन्तप्यन्ते ।
Wise persons do not grieve in this world understanding that a tree that has been felled grows again and that the moon which wanes expands again.

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमः
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता
सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ॥ नी-८० ॥
अ: सुजनता ऐश्वर्यस्य विभूषणं, वाक्संयमः शौर्यस्य, उपशमः ज्ञानस्य, विनयः श्रुतस्य, पात्रे व्ययः वित्तस्य, अक्रोधः तपसः, क्षमा प्रभवितुः, निर्व्याजता धर्मस्य, सर्वेषाम्  अपि सर्वकारणम् इदं शीलं परं भूषणम् ।
Good conduct is an ornament for wealth, restraint in speech is an ornament  for valour, mental tranquillity for wisdom, humility for scholarship, spending  for the right cause for money, not getting angry for penance, ability to pardon for a capable person, being unbiased for righteous conduct; this morality is an ornament for one and all.

अथ दैवपद्धतिः
Section on Destiny

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावतो वारणः ।
इत्याश्चर्यबलान्वितोऽपि बलभिद्भग्नः परैः सङ्गरे
तद्व्यक्तं ननु दैवमेव शरणं धिग्धिग्वृथा पौरुषम् ॥ नी-८१ ॥
अ: यस्य नेता बृहस्पतिः, प्रहरणं वज्रं, सैनिकाः सुराः, दुर्गं स्वर्गो, अनुग्रहः खलु हरेः, वारणः ऐरावतः, इति आश्चर्यबलान्वितः अपि बलभित् सङ्गरे परैः भग्नः, तत् व्यक्तं ननु शरणं दैवम् एव पौरुषम् वृथा, धिक् धिक् ।
Even Indra, whose leader is Bruhaspati, whose weapon is Vajra, whose army consists of Divine persons, whose fort is heaven,  whose elephant is Airavata and who has the blessings of Lord Vishnu was defeated by his enemies in battle; it is quite clear that destiny is the refuge and valour is of no use, what a pity!

--
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वॆषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकश्चापरे ॥ शृ-७९ ॥
: ये मूढाः कुधियः कुसुम-आयुधस्य जयिनीं सर्व-अर्थ-सम्पत्करीं स्त्री-मुद्रां प्रविहाय मिथ्या-फल-अन्वेषिणः यान्ति,ते तेन एव निहत्य निर्दयतरं नग्नीकृताः मुण्डिताः
केचित् पञ्चशिखीकृताः च जटिलाः अपरे कापालिकाः च (कृताः) ।
Fools having wrong knowledge who neglect the cupid’s signet in the form of ladies which provides every type of wealth and which ensures victory go after false results. They are mercilessly destroyed by the same cupid and some are made naked, tonsured, some are made to have five tufts, some to have matted hairs and others to hold skulls. [ It is the poet’s way of saying that they become ascetics of various types.] 

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनाः
तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं येभुञ्झते मानवाः
तेषामिन्द्रियनिग्रहो यदि भवेत् विन्ध्यः प्लवेत् सागरे ॥ श्रृ-८० ॥
अ: वात–अम्बु-पर्ण-अशनाः विश्वामित्र-पराशर-प्रभृतयः ते अपि सुललितं स्त्री-मुख-पङ्कजं दृष्ट्वा एव मोहं गताः । शाली-अन्नं सघृतं पयो-दधि-युतं ये मानवाः भुञ्जते तेषाम् इन्द्रियनिग्रहः यदि भवेत् विन्ध्यः सागरे प्लवेत् ।
Even ascetics like Viswamitra and Parasara who subsisted on just air, water or leaves got deluded by looking at the lotus face of ladies. Vindhya mountain would float on ocean if those who consume cooked rice with ghee mixed with milk and curd were to control their senses.

अथ ऋतुवर्णनम्

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रियाः पिकपक्षिणाम् ।
विरलविरलस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ शृ-८१ ॥
अ: परिमल-भृतः वाताः, नवाङ्कुरकोटयः शाखाः, पिकपक्षिणां प्रियाः मधुर-विधुर-उत्कण्ठाभाजः, वधू-वदन-इन्दवः विरल-विरल-स्वेद-उद्गाराः, धात्र्यां मधौ प्रसरति (सति) कस्य गुणोदयः न जातः ।
The wind is carrying fragrances, the branches are full of the tips of new sprouts, female cuckoos express a longing sometimes pleasing and sometimes harsh, the moon-like faces of young ladies have sparse drops of sweats oozing; when spring arrives on the land which thing does not  attain quality?

--
रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसमागमागतसुखं काव्यॆषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यमनित्यतामुपगते चित्ते न किञ्चित्पुनः ॥ वै-७९ ॥
अ: चन्द्रमरीचयः रम्याः तृणवती वन-अन्त-स्थली रम्या
साधु-समागम-आगत-सुखं रम्यं काव्येषु कथाः रम्याःकोप-उपाहित-बाष्प-बिन्दु-तरलं प्रियाया मुखं रम्यं सर्वं रम्यम् चित्ते अनित्यताम् उपगते न किञ्चित्पुनः (रम्यम् ) ।
Pleasant are the moonbeams, pleasant are the grass laden forest interiors; pleasant is the happy meeting with saints; pleasant are the stories in literary works; pleasant is the face of the beloved with unsteady drops of tears brought out by feigned anger; everything is pleasant; but if there is restlessness in mind nothing is pleasant.

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किन्तु भ्रान्तपतङ्गपक्षपवनव्यालोलदीपाङ्कुर-
च्छायाचञ्चलमाकलय्य सकलं सन्तो वनान्तं गताः ॥वै-८० ॥
अ: वसतये हर्म्यतलं रम्यं न किं? गेयादिकं श्रव्यं न (किम्), वा प्राण-समा-समागम-सुखं एव अधिकप्रीतये न किं ? किन्तु सकलं भ्रान्त-पतङ्ग-पक्ष-पवन-व्यालोल-दीप-अङ्कुर-
च्छाया-चञ्चलम् आकलय्य सन्तः वनान्तं गताः
Is not a mansion nice for staying? Is it not nice to listen to music? Or is it not very pleasing to meet with a beloved? But considering that everything is as temporary as the unsteady shadow of the flame of a lamp wavering due to the air blown by the wings of a disoriented moth, the wise have gone to the forest. 

अथ शिवार्चनम्
( Worshipping Shiva)

आसंसारात्त्रिभुवनमिदं चिन्वतां तात तादृक्-
मैवास्माकं नयनपदवीं श्रोत्रमार्गं  गतो वा ।
योऽयं धत्ते विषयकरिणीगाढगूढाभिमान-
क्षीबस्यान्तःकरणकरिणः संयमानायलीलाम् ॥ वै-८१ ॥
अ: तात! आसंसारात् त्रिभुवनम् इदं चिन्वतां अस्माकं नयनपदवीं श्रोत्रमार्गं  वा तादृक्-
एव मा गतो, यः अयं विषय-करिणी-गाढ-गूढ-अभिमान-
क्षीबस्य अन्तःकरण-करिणः संयम-आनाय-लीलाम् धत्ते
Dear!  We, who have been searching this world ever since its beginning  have not heard or seen one who acts as the rope-net which controls the elephant called mind which is intoxicated with the deep secret desire for the female elephant called the sensual pleasures.
- - - -  

Saturday, November 14, 2015

Bhartrhari's Shatakas-27

भर्तृहरिशतकत्रयी-२७

कदर्थितस्यापि हि धैर्यवृत्तेः
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अधोमुखस्यापि कृतस्य वह्नेः
नाधः शिखा यान्ति कदाचिदेव ॥ नी-७६  ॥
अ: धैर्यवृत्तेः कदर्थितस्य अपि धैर्यगुणः प्रमार्ष्टुं न शक्यते । वह्नेः अधोमुखस्य कृतस्य अपि शिखाः कदाचित् एव अधः न यान्ति ।  
Fortitude of a brave person cannot be obliterated even if he is despised. The flames of a fire even if held down do not grow downwards.

वरं शृङ्गोत्सङ्गाद्गुरुशिखरिणः क्वापि विषमे
पतित्वायं कायः कठिनदृषदन्ते विगलितः ।
वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने
वरं वह्नौ पातस्तदपि न कृतः शीलविलयः ॥ नी-७७ ॥
अ : अयं कायः गुरु-शिखरिणः शृङ्ग-उत्सङ्गात् क्व अपि विषमे कठिण-दृषद्-अन्ते पतित्वा विगलितः वरम्, हस्तः तीक्ष्ण-दशने फणि-पति-मुखे न्यस्तः वरम्, वह्नौ पातः वरम्, तत् अपि शील-विलयः न कृतः ।
 It is better that this body gets broken by falling on some hard rock from a cliff of a high mountain, it is better that the hand is thrust into the mouth of a big snake with sharp fangs, it is better to jump into fire, ones morality should not get lost.

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणात्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरङ्गायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्याङ्गेऽखिललोकवल्लभतरं शीलं समुन्मीलति ॥ नी-७८ ॥
अ: यस्य अङ्गे अखिल-लोक-वल्लभतरं शीलं समुन्मीलति, तस्य वह्निः जलायते, जलनिधिः कुल्यायते, तत्क्षणात् मेरुः स्वल्पशिलायते, मृगपतिः सद्यः कुरङ्गायते,  व्यालः माल्य-गुणायते, विष-रसः पीयूष-वर्षायते ।
Fire becomes water, ocean becomes a small canal, mountain Meru becomes a small rock, lion becomes a deer, a serpent becomes a garland and poison becomes ambrosia for a person in whom morality adored by the whole world shines.

--
तावन्महत्त्वं पाण्डित्यं कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु हतः पञ्चेषुपावकः ॥ शृ-७६ ॥
अ: यावत् अङ्गेषु हतः पञ्चेषु-पावकः न ज्वलति, तावत् महत्त्वं पाण्डित्यं कुलीनत्वं, विवेकिता ।
One’s greatness, scholarship and ability to discriminate last so long as the cursed fire called cupid does not inflame one’s body. 

शास्त्रज्ञोऽपि प्रगुणितनयोऽप्यात्तबोधोऽपि बाढं
संसारेऽस्मिन् भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारमुद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ शृ-७७ ॥
अ: अस्मिन् संसारे शास्त्रज्ञः अपि, प्रगुणित-नयः अपि, आत्त-बोधः अपि,सद्गतीनां भाजनं विरलः भवति, येन एतस्मिन् वाम-अक्षीणां कुटिला भ्रू-लता कुञ्चिका इव निरय-नगर-द्वारम् उद्घाटयन्ती भवति ।
 In this world even though a person is well versed in scriptures, is endowed with right conduct, is aware of true knowledge it is rare that he attains salvation. Because the curved creeper-like eye brows of ladies with beautiful eyes act as a key which opens the door of city called hell.

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयत्क्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधाक्षामो जीर्णः पिठरककसालार्पितगलः
शुनीमन्वेति श्वा हतमपि च हन्त्येव मदनः ॥ शृ-७८ ॥
अ: कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलःव्रणी पूयत्क्लिन्नः कृमि-कुल-शतैः आवृत-तनुः क्षुधा-क्षामः जीर्णः पिठरक-कसाल-अर्पित-गलः श्वा शुनीम् अन्वेति । मदनः हतम् अपि च हन्ति एव ।
A dog even if it is weak, blind, lame, deaf, tail-less, wounded wet with pus, with its body covered with hundreds of worms, hungry, old with its neck stuck in a broken pot follows a bitch. Cupid strikes even the stricken.
--
तपस्यन्तः सन्तः किमधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुत विविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ वै-७६ ॥
अ: जने कतिपय-निमेष-आयुषि,  तपस्यन्तः सन्तः सुरनदीं अधि निवसामः किम्? उत गुण-उदारान् दारान् सविनयम् परिचरामः , उत विविध-काव्य-अमृत-रसान् शास्त्र-ओघान् पिबामः, न विद्मः किं कुर्मः ।
Shall we live near the river Ganga doing penances? Or, shall we serve in humility virtuous wives? Or, shall we drink the streams of ambrosia-like various literary works which act as streams of scripture? We do not know what we should do.

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजः
वयं च स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितमिदं
सखे नान्यच्छ्रेयो जगति विदुषोऽन्यत्र तपसः ॥ वै-७७ ॥
अ:सखे! अमी तुरग-चल-चित्ताः क्षितिभुजः दुराराध्याः, वयं च स्थूल-इच्छाः सुमहति फले बद्ध-मनसः,जरा देहं हरति, मृत्युः दयितम् इदं जीवितं हरति, अन्यत्र जगति तपसः अन्यत् श्रेयः न ।
Dear friend, these kings who are fickle-minded like horses are difficult to serve; but we with a large desire are determined to attain the great goal; old age takes away this dear body, death takes away this life; elsewhere in this world there is nothing beneficial other than penance.
माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयातेऽर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलमेतदेव सुधियां यज्जह्नुकन्यापयः-
पूतग्रावगिरीन्द्रकन्दरनटीकुञ्जे निवासः क्वचित् ॥ वै-७८ ॥
अ: माने म्लायिनि, वसुनि खण्डिते च, अर्थिनि व्यर्थे प्रयाते, बन्धुजने क्षीणे, परिजने गते, शनैः यौवने नष्टे, सुधियां केवलम् एतत् एव, यत् क्वचित् जह्नु-कन्या-पयः-
पूत-ग्राव-गिरीन्द्र-कन्दर-नटी-कुञ्जे निवासः युक्तम् ।
With respect for oneself fading away, wealth gone to pieces, those seeking help having gone away, relatives having thinned out, members of family having gone, youth getting lost slowly, the only thing a wise man could do is to settle down in a bower in a cave of a big mountain  with rocks purified by the waters of river Ganga.
- - - - 


Saturday, November 7, 2015

Bhartruhari's Shatakas-26

भर्तृहरिशतकत्रयी-२६

क्वचित्पृथ्वीशय्यः क्वचिदपि पर्यङ्कशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कन्थाधारी क्वचिदपि च दिव्याम्बरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ नी-७३ ॥
अ: क्वचित् पृथ्वी-शय्यः, क्वचित् अपि पर्यङ्क-शयनः, क्वचित् शाक-आहारः, क्वचित् अपि शाल्योदन-रुचिः, क्वचित् कन्ता-धारी, क्वचित् अपि दिव्य-अम्बर-धरः, मनस्वी कार्यार्थी दुःखं न गणयति, सुखं न गणयति ।
An intelligent person determined to attain his objective does not care for comforts or discomforts that come his way; he sleeps on the floor sometimes, he sleeps on a couch sometimes; he subsists on just vegetables sometimes, he has meal made of  boiled rice sometimes; he is sometimes dressed in rags, sometimes wears divine clothing.

निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।
अद्यैव वा मरणमस्तु युगान्तरे वा
न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥ नी-७४ ॥
अ: यदि नीति-निपुणाः निन्दन्तु वा स्तुवन्तु, लक्ष्मीः यथा-इष्टं समाविशतु वा गच्छतु,मरणम् अद्य एव वा युग-अन्तरे अस्तु, धीराः न्याय्यात् पथः पदं न प्रविचलन्ति ।
The brave do not deviate from the path of correct conduct irrespective of whether experts in moral behaviour praise him or criticize him; whether wealth goes away or comes in at its own will; whether death occurs today or aeons later.

कान्ताकटाक्षविशिखा न लुनन्ति यस्य
चित्तं न निर्दहति कोपकृशानुतापः ।
तर्षन्ति भूरिविषयाश्च न लोभपाशा
लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥ नी-७५ ॥
अ: यस्य चित्तं कान्ता-कटाक्ष-विशिखाः न लुनन्ति, कोप-कृशानु-तापः  चित्तं न निर्दहति,  (यं) लोभ-पाशाः भूरि-विषयाः च न तर्षन्ति सः धीरः इदं कृत्स्नं लोक-त्रयं जयति ।
He indeed is brave whose mind is not severed by the arrows of his beloved’s glances and is not burnt in the fire of anger, and who will not be tempted by the snares of greed or heavy sensual attractions. He will conquer the three worlds.
--
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किं तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ शृ-७३ ॥
अ: भुवि मत्त-इभ-कुम्भ-दलने धीराः सन्ति, केचित् प्रचण्ड-मृगराज-वधे अपि दक्षाः, किं तु बलिनां पुरतः प्रसह्य ब्रवीमि, मनुष्याः कन्दर्प-दर्प-दलने विरलाः ।
There are brave people in this world who can strike at the temple of a mad elephant; there are capable people who can kill a lion, king of animals; but, I can tell in front of strong people, people who can strike at the arrogance of cupid are indeed rare.

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ शृ-७४ ॥
अ: यावत् लीलावतीनां एते भ्रू-चाप-आकृष्ट-मुक्ताः श्रवण-पथ-गताः नील-पक्ष्माणः धृति-मुषः दृष्टि-बाणाः हृदि न पतन्ति, तावत् एव नरः सन्मार्गे आस्ते, इन्द्रियाणां (नियमने) तावत् एव प्रभवति, तावत् लज्जां विधत्ते, तावत् एव विनयम् अपि समालम्बते ।
So long as the arrows of glances of coquettish ladies shot by the curved bow-like brows with blue eye lashes (blue feathers) which steal ones courage do not fall on his heart, he treads the right path, he controls the senses, he upholds a sense of shame and he displays modesty.

उन्मत्तप्रेमसंरम्भादारभन्ते यदङ्गनाः ।
तत्र प्रत्यूहमाधातुं ब्रह्मापि खलु कातरः ॥ शृ-७५ ॥
अ: अङ्गनाः उन्मत्त-प्रेम-संरम्भात् यत् आरभन्ते तत्र प्रत्यूहम् आधत्तुं ब्रह्मा अपि कातरः ।
Even Brahma feels diffident to obstruct actions of women who are insanely excited by love.
--
गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिः
दृष्टिर्नश्यति वर्धते बधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यमित्रायते ॥ वै-७३ ॥
अ: जीर्णवयसः पुरुषस्य गात्रं सङ्कुचितं (भवति), गतिः विगलिता, दन्त-आवलिः भ्रष्टा, दृष्टिः नश्यति, बधिरता वर्धते, वक्त्रं च लालायते, बान्धवजनः वाक्यं नाद्रियते, भार्या न शुश्रूषते, पुत्रः अपि अमित्रायते, हा कष्टम् ।
An old man’s body shrinks, his steps become loose, his teeth are lost, eye sight weakens, deafness increases, saliva oozes out from the mouth, relatives do not respect him, wife does not serve, even son becomes unfriendly, what a pity!

वर्णं सितं झटिति वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितास्थिशतकं परिहृत्य यान्ति
चण्डालकूपमिब दूरतरं तरुण्यः ॥ वै-७४ ॥
अ: तरुण्यः शिरोरुहाणां सितं वर्णं वीक्ष्य तदा जरा-परिभवस्य स्थानं पुमांसं झटिति आरोपित-अस्थि-शतकं चण्डाल-कूपम् इव परिहृत्य दूरतरं यान्ति ।
Young women keep away in haste from old men, looking at their white hairs and how old age has defeated those men, just as people keep away from wells filled with hundreds of bones and used by the low caste people.
 
यावत्स्वस्थमिदं शरीरमरुजं यावज्जरा दूरतो
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ वै-७५ ॥

अ: यावत् इदं शरीरम् अरुजं स्वस्थं यावत् जरा दूरतः, यावत् इन्द्रिय-शक्तिः अप्रतिहता, यावत् आयुषः क्षयः न तावत् एव विदुषा आत्म-श्रेयसि महान् प्रयत्नः कार्यः। भवने सन्दीप्ते कूप-खननं प्रति उद्यमः कीदृशः?
While this body is in good health without any illness, while the senses have not lost their sharpness and while longevity is not reduced, much effort has to be put in by a wise man for the good of his soul. What sort of an action is it to start digging a well when the house is on fire?
- - - - 

Saturday, October 31, 2015

Bhartrhari's Shatakas-25

भर्तृहरिशतकत्रयी-२५

मनसि वचसि काये पुण्यपीयूषपूर्णाः
त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसन्तः सन्ति सन्तः कियन्तः ॥ नी-७० ॥
अ: मनसि वचसि काये पुण्य-पीयूष-पूर्णाः त्रिभुवनम् उपकार-श्रेणिभिः प्रीणयन्तः परगुण-परमाणून् नित्यं पर्वतीकृत्य निज-हृदि विकसन्तः सन्तः कियन्तः सन्ति?
How many saintly persons are there who are full of the ambrosia of meritorious acts, who please all the three worlds with a series of benefits and who after making a mountain of the miniscule good qualities of others feel satisfied in their heart?

अथ धैर्यपद्धतिः
( Section on courage)
रत्नैर्महाब्धेस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न प्रययुर्विरामं
न निश्चितार्थाद्विरमन्ति वीराः ॥ नी-७१ ॥
अ: देवाः महा-अब्धेः रत्नैः न तुतुषुः, भीम-विषेण भीतिं न भेजिरे, सुधां विना विरामं न प्रययुः । वीराः निश्चित-अर्थात् न विरमन्ति ।
The divine beings were not satisfied with the gems from the ocean, were not frightened by the terrible poison, did not rest till they got ambrosia. The brave do not stop till they attain their goal.

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्ननिहता विरमन्ति मध्याः ।
विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः
प्रारब्धमुत्तमगुणा न परित्यजन्ति ॥ नी-७२ ॥
अ: नीचैः विघ्न-भयेन न प्रारभ्यते खलु, मध्याः प्रारभ्य विघ्न-निहताः विरमन्ति, उत्तम-गुणाः मुहुः मुहुः विघ्नैः प्रतिहन्यमानाः अपि प्रारब्धं न परित्यजन्ति ।
Persons of inferior rank do not start the work fearing obstructions; persons of middle rank start and stop when obstructions come their way; persons of superior rank do not leave a work started despite obstructions coming their way again and again.
--
तावदेव कृतिनामपि स्फुरत्-
येष निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ शृ-७० ॥
अ: कृतिनाम् अपि एषः निर्मल-विवेक-दीपकः तावत् एव स्फुरति यावत् एव कुरङ्ग-चक्षुषां चटुल-लोचन-अञ्चलैः न ताड्यते ।
A pious person’s light of faultless ability to discriminate shines only so long as he is not struck by the side glances of unsteady eyes of doe-eyed ladies.

वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनमरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलय नयनानां को विहातुं समर्थः ॥ शृ-७१ ॥
अ: श्रुति-मुखर-मुखानां पण्डितानां केवलं सङ्ग-त्यागम् उद्दिश्य वार्ता वचसि केवलं भवति । कः कुवलय-नयनानाम् अरुण-रत्न-ग्रन्थि-काञ्ची-कलापं जघनं विहातुं समर्थः?
For scholars who are proficient in reciting the Vedas, the subject of detachment is just for talking. Who can let go the lotus-eyed ladies’ loins, the girdles of which have a red ruby at the knot?

स परप्रतारकोऽसौ निन्दति योऽलीकपण्डितो युवतीः ।
यस्मातपसोऽपि फलं स्वर्गः स्वर्गेऽपि चाप्सरसः  ॥ शृ-७२ ॥
अ: यः युवतीः निन्दति असौ सः पर-प्रतारकः अलीक-पण्डितः, यस्मात् तपसः अपि फलं स्वर्गः स्वर्गे अपि च अप्सरसः ।
He is a false scholar who deceives others by castigating young women, because, the fruit of penance is heaven and there are divine-nymphs even in heaven.
--
पातालमाविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथमात्मलीनं
न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ वै-७० ॥
अ: मानस! चापलेन भ्रान्त्या पातालम् आविशसि, नभः विलङ्घ्य यासि, दिङ्मण्डलं भ्रमसि, आत्म-लीनं ब्रह्म येन निर्वृतिम् एषि कथं न संस्मरसि?
O mind! Due to an unsteady delusion, you enter the nether world, jump up the sky and wander around the earth; how is it that you do not remember the Brahman which is merged with the self with the help of which you get beatitude?

अथ नित्यानित्यवस्तुविचारः
(Discussion on permanent and impermanent things)

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेषैर्वणिग्वृत्तिभिः ॥ वै-७१ ॥
अ: वेदैः स्मृतिभिः पुराण-पठनैः महा-विस्तरैः शास्त्रैः स्वर्ग-ग्राम-कुटी-निवास-फलदैः कर्म-क्रिया-विभ्रमैः किम्? भव-दुःख-भार-रचना-विध्वंस-काल-अनलं स्व-आत्म-आनन्द-पद-प्रवेश-कलनं एकं मुक्त्वा शेषैः वणिक्-वृत्तिभिः (किम्)?
What is the use of Vedas, Codes of conduct, elaborate scriptures and restless actions and rituals whose fruits are heaven, rural residence etc.? What is the use of commercial activities other than the one which acts as a conflagration at the end of Time destroying the burden of the grief of worldly affairs and which enables ones entry into the abode of inner joy. 

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छ्त्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ वै-७२ ॥
अ: यतः श्रीमान् मेरुः युग-अन्त-अग्नि-वलितः निपतति, प्रचुर-मकर-ग्राह-निलयाः समुद्राः शुष्यन्ति, धरणि-धर-पादैः अपि धृता धरा अन्तं गच्छति, करि-कलभ-कर्ण-अग्र-चपले शरीरे का वार्ता?

Where is the question of (the permanency) of this body which is as unsteady as the ear-tips of an elephant, when even the richly endowed mountain Meru falls engulfed by the annihilating Fire, oceans which house sharks and crocodiles dry up and the earth held firm by the mountains collapses?
- - - -  

Saturday, October 24, 2015

Bhartruhari's Shatakas-24

भर्तृहरिशतकत्रयी-२४

इतः स्वपिति केशवः कुलमितस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतोऽपि वडवानलः सह समस्तसंवर्तकैः
अहो विततमूर्जितं भरसहं च सिन्धोर्वपुः ॥ नी-६७ ॥
अ: इतः केशवः स्वपिति, इतः तदीय-द्विषां कुलम्, इतः च शरण-अर्थिनां गणाः शेरते, इतः अपि समस्त-संवर्तकैः सह वडवानलः, सिन्धोः वपुः विततम्,ऊर्जितं, भर-सहं च, अहो ।
 Here sleeps Vishnu, here the family of his enemies, here sleep those who seek his shelter, here is the sub-oceanic fire Vadava along with the world-annihilating fires; how wide, energetic and capable of bearing load the body of the ocean is!

जातः कूर्मः स एकः पृथुभुवनभरायार्पितं येन पृष्ठं
श्लाघ्यं जन्म ध्रुवस्य भ्रमति नियमितं यत्र तेजस्विचक्रम् ।
सञ्जातव्यर्थपक्षाः परहितकरणे नोपरिष्ठाच्च चाधो
ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनष्टाः ॥ नी-६८ ॥
अ: सः कूर्मः येन पृष्ठं पृथु-भुवन-भराय अर्पितम् एकः ; यत्र तेजस्वि-चक्रं नियमितं भ्रमति ध्रुवस्य जन्म श्लाघ्यम्; अपरे जन्तवः पर-हित-करणे सञ्जात-व्यर्थ-पक्षाः, न उपरिष्ठात्, न च अधः ब्रह्माण्ड-उदुम्बर-अन्तः-मशकवत् ।
There was only one tortoise whose back was dedicated to carrying the weight of the heavy earth; the life of Dhruva is indeed laudable around whom the bright stars revolve regularly; others are neither above nor below like flies in Udumbara (native fig) fruit-like universe being of no use in helping others.

तृष्णां छिन्दि भज क्षमां जहि मदं पापे मतिं मा कृथाः ।
सत्यं बृह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥ नी-६९ ॥
अ: तृष्णां छिन्दि, क्षमां भज, मदं जहि, पापे मतिं मा कृथाः, सत्यं ब्रूहि, साधु-पदवीम् अनुयाहि, विद्वत्-जनं सेवस्व, मान्यान् मानय, विद्विषः अपि अनुनय, प्रश्रयं प्रख्यापय, कीर्तिं पालय, दुःखिते दयां कुरु, एतत् सतां चेष्टितम् ।
Cut asunder greed, be forgiving, destroy haughtiness, do not indulge in sins, be truthful, follow leading saints, serve scholars, respect those worthy of respect, get along with even your adversaries, spread civility, protect your fame,  show compassion towards those grieved. This is the conduct of persons of virtue.
--
विरमत बुधा योषिसङ्गात्सुखात्क्षणबन्धुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणमथ वा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ शृ-६७ ॥
अ: बुधाः, अथ क्षण-बन्धुरात् सुखात् योषित्-सङ्गात् विरमत, करुणा-मैत्री-प्रज्ञा-वधूजन-सङ्गमं कुरुत, नरके हार-आक्रान्तं घन-स्तन-मण्डलं रणन्-मणि-मेखलं श्रोणी-बिम्बं न खलु वा शरणम् ।
Scholars! Stop being in the company of ladies which gives momentary pleasure, cultivate the company of ladies called Compassion, Friendship and Knowledge, you cannot take refuge in ladies of heavy breasts pressed by garlands and hips with jingling waist band when you land in hell.

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोः
अविच्छिन्ना मैत्री स्फुरति कृतिनस्तस्य किमु तैः ।
प्रियाणामालापैरधरमधुभिर्वक्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ शृ-६८ ॥
अ: यदा (यस्य) योग-अभ्यास-व्यसन-कृशयोः आत्म-मनसोः  अविच्छिन्ना मैत्री स्फुरति, तस्य कृतिनः तैः प्रियाणाम् आलापैः वक्र-विधुभिः अधर-मधुभिः, स-निश्वास-आमोदैः स-कुच-कलश-आश्लेष-सुरतैः किमु?
For those successful persons,  in whom  there sparkles a continuous union between the soul and the mind weakened by the practice of Yoga, of what use is chatting with loving ladies who have honey in their moon-like lips, enjoying the fragrance of their breath and having amorous pleasures of embracing pot-like breasts?   

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ शृ-६९ ॥
अ: यदा स्मर-तिमिर-सञ्चार-जनितं अज्ञानम् आसीत् तदा इदम् अशेषं जगत् नारीमयं दृष्टम्,इदानीं पटुतर-विवेक-अञ्जन-जुषाम् अस्माकं दृष्टिः समीभूता, त्रिभुवनम् अपि ब्रह्म मनुते ।
When there was ignorance caused by the passage of darkness called Cupid this whole world looked full of ladies; now that our vision is upright having the collyrium of discriminatory knowledge we consider all the three worlds to be Brahman.
--
प्राप्ताः श्रियः सकलकामदुघास्ततः किम्
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किम्
कल्पस्थितास्तनुभृतां तनवस्ततः किम् ॥ वै-६७ ॥
अ: सकल-काम-दुघाः श्रियः प्राप्ता:, ततः किम्? विद्विषतां शिरसि पदं न्यस्तं, ततः किम्? विभवैः प्रणयिनः सम्पादिताः, ततः किम्? तनुभृतां तनवः कल्प-स्थिताः, ततः किम्?
Wealth which provides for every type of desires has been obtained, so what? Foot has been placed on the heads of adversaries, so what? Lovers have been acquired by my wealth, so what? Bodies of persons are going remain for aeons, so what?

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्गदोषरहिता विजना वनान्ता
वैराग्यमस्ति किमतःपरमर्थनीयम् ॥ वै-६८ ॥
अ: भवे भक्तिः, मरण-जन्म-भयं हृदिस्थं, बन्धुषु न स्नेहः, मन्मथ-जाः विकाराः न,संसर्ग-दोष-रहिताः विजनाः वनान्ताः, वैराग्यम् अस्ति (चेत्) अतः परं अर्थनीयं किम्?
Devotion to Lord Siva, fear of death and birth in the heart, not being attached to kith and kin, not having feelings caused by Cupid, inclination to living in lonely forest lands and detachment; if these are there, where is the need for anything else?

तस्मादनन्तमजरं परमं विकासि
तद्ब्रह्म चिन्तय किमेभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्य-
भोगादयः कृपणलोकमता भवन्ति ॥ वै-६९ ॥
अ: तस्मात् अनन्तम् अजरं परमं विकासि तत् ब्रह्म चिन्तय यस्य इमे अनुषङ्गिणः भुवन-आधिपत्य-भोग-आदयः कृपण-लोक-मताः भवन्ति, एभिः असत्-विकल्पैः किं (कार्यम्)?

Therefore meditate on that Brahman, which is endless, ever expanding, and never ageing for which these lordship over earth, pleasures etc. become worthless consequences. For what purpose are these unreal alternatives? 
- - - - 

Saturday, October 17, 2015

Bhartrhari's Shatakas-23

भर्तृहरिशतकत्रयी-२३
एते सत्पुरुषाः परार्थघटकाः स्वार्थान्परित्यज्य ये
सामान्यास्तु परार्थमुद्यमभृतः स्वार्थाविरोधेन ये ।
तेऽमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नन्ति ये
ये तु घ्नन्ति निरर्थकं परहितं ते के न जानीमहे ॥ नी-६४ ॥
अ: ये स्वार्थान् परित्यज्य पर-अर्थ-घटकाः एते सत्पुरुषाः; ये स्वार्थ-अविरोधेन परार्थम् उद्यम-भृतः तु सामान्याः; ये स्वार्थाय परहितं निघ्नन्ति ते अमी मानुषराक्षसाः
ये निरर्थकं परहितं तु घ्नन्ति ते के न जानीमहे ।
Those who sacrifice their self-interest and indulge in serving others are the persons of virtue; they who work for others’ cause without hindering their self –interest are ordinary; those who destroy the interests of others for their own self-interest are demons in human form; we do not know who they are who kill others’ interests without any reason.  

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्ताः ॥ नी-६५ ॥
अ: पापात् निवारयति, हिताय योजयते, गुह्यं निगूहति, गुणान् प्रकटीकरोति ,आपद्गतं च न जहाति, काले ददाति सन्तः इदं सन्मित्रलक्षणम् प्रवदन्ति ।
He prevents committing sin, he engages you towards salutary action, he keeps secret what needs to be kept secret, he publicizes good deeds, he takes care of those who seek his shelter, he gives (what needs to be given) in time. Such are the qualities of a good friend according to virtuous people.

क्षीरेणात्मगतोदकाय हि गुणा दत्ताः पुरा तेऽखिलाः
क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गन्तुं पावकमुन्मनस्त्दभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ नी-६६ ॥
अ: पुरा क्षीरेण आत्मगत-उदकाय ते अखिलाः गुणाः दत्ताः हि, क्षीर-उत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः, मित्रापदं दृष्ट्वा पावकं गन्तुं उन्मनः तत् अभवत् ,
तेन जलेन युक्तं शाम्यति, सतां मैत्री पुनः तु ईदृशी ।
Long back milk gave away all its qualities to water which forms a part of milk; that water sacrificed itself in fire when it found milk getting burnt; seeing its friend in distress milk went up to get into fire; that is why milk cools down when water id added; such is the friendship of good people.[ Poet sees the quality of good friendship in the natural process of boiling milk.]  
--
किं कन्दर्प शरं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ शृ-६४ ॥
अ: रे कन्दर्प, कोदण्डटङ्कारितं शरं किं कदर्थयसि? रे रे कोकिल! कोमलं कल-रवं किं वा वृथा जल्पसि, मुग्धे! स्निग्ध-विदग्ध-चारु-मधुरैः लोलैः कटाक्षैः अलम्, चेतः! चुन्बित-चन्द्र-चूड-चरण-ध्यान-अमृतं वर्तते ।
O Cupid! Why do you torment by twanging the bow? O cuckoo! Why do you sing your soft tunes in vain? O guileless lady! Enough of  your smooth artful elegant and sweet unsteady glances. O mind! There exists the ambrosia of meditating on Siva’s head kissed by the moon. (go and seek it)

विरहेऽपि सङ्गमः खलु परस्परं सङ्गतं मनो येषाम् ।
हृदयं विघट्टितं चेत् सङ्गो विरहं विशेषयति ॥ शृ-६५ ॥
अ: येषां मनः परस्परं सङ्गतं विरहे अपि सङ्गमः खलु, हृदयं विघट्टितं चेत् सङ्गः विरहं विशेषयति ।
If the minds have met there is union even while separated; if the heart is broken union enhances the feeling of separation.

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ शृ-६६ ॥
अ: यदि प्रियतमा न जीवति गतेन किं, यदि सा प्राणिति तथा अपि किम् ?
इति नवमेघमालिकां उदीक्ष्य पथिकः स्वमन्दिरम् न प्रयाति ।
“What is the use of my going if my beloved is not alive; what if she is alive even?” thinking thus, looking at the fresh series of clouds the traveller does not proceed towards his house.
--
मोहं मार्जय तामुपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीवनभुवानासङ्गमङ्गीकुरु ।
को वा वीचिषु बुद्बुधेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु च सुहृद्वर्गेषु च प्रत्ययः ॥ वै-६४ ॥
अ: चेतः! मोहं मार्जय, चन्द्रार्ध-चूडामणौ तां रतिम् उपार्जय, स्वर्ग-तरङ्गिणी-वन-भुवाम् आसङ्गम् अङ्गीकुरु, वीचिषु बुद्बुधेषु च तडित् लेखासु च श्रीषु च
ज्वाल-अग्रेषु च पन्नगेषु च सुहृद्-वर्गेषु च को वा प्रत्ययः?
O Mind! Sweep away delusion; earn love for Siva who has as his crescent gem the half moon; accept attachment to the banks of river Ganga. What type of trust can you have in waves, bubbles, lightning, wealth, flame of a fire, snakes and friends?

चेतश्चिन्तय मा रमां सकृदिमामस्थायिनीमास्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसी-
रथ्यापङ्क्तिषु पाणिपात्रपतितां भिक्षामपेक्षामहे ॥ वै-६५ ॥
अ: चेतः! इमाम् अस्थायिनीं रमां सकृत् मा चिन्तय, भूपाल-भ्रुकुटी-कुटी-विहरण-व्यापार-पण्याङ्गनाम् (च मा चिन्तय), कन्था-कञ्चुकिनः वाराणसी-
रथ्या-पङ्क्तिषु भवनद्वाराणि प्रविश्य पाणि-पात्र-पतितां भिक्षाम् अपेक्षामहे ।
O Mind! Never think of unstable Goddess of wealth, never think of the prostitute whose only business is to dwell on the eye-brows of kings; we shall seek alms which fall into the vessel held in our hands as we enter the doors of houses wearing rags in the streets of Varanasi.

अग्रे गीतं सरसकवयो पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम्  ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वम्
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ वै-६६ ॥
अ: चेतः! अग्रे गीतं, पार्श्वयोः दाक्षिणात्याः सरसकवयः, पश्चात् चामरग्राहिणीनाम् लीलावलयरणितं यदि एवम्  अस्ति भव-रस-आस्वादने लम्पटत्वम् कुरु
नो चेत् निर्विकल्पे समाधौ सहसा प्रविश ।
O Mind! There should be music in front, on the sides  skilled poets from the South, behind there should be the jingling of the bangles of ladies holding fans; if these thing are there enjoy yourself in worldly pleasures, if not enter the state of absolute meditation.
- - - -