Saturday, December 15, 2012

Bhamini vilasah-12

भामिनीविलासः-१२
खलः कापट्यदोषेण दूरेणैव विसृज्यते ।
अपायशङ्किभिर्लोकैः विषेणाशीविषो यथा ॥ ७७ ॥
अन्वयः : खलः अपायशङ्किभिः लोकैः कापट्यदोषेण आशीविषः विषेण यथा दूरेण एव विसृज्यते ।
A wicked person is avoided from a distance because of his defect of being deceitful by persons who are afraid of danger just as a snake is avoided because of its venom.


पाण्डित्यं परिहृत्य यस्य हि कृते बन्दित्वमालम्बितम्
दुष्प्राप्यं मनसापि यो गुरुतरैः क्लेशैः पदं प्रापितः ।
रूढस्तत्र स चेन्निगीर्य सकलां पुर्वोपकारावलीम्
दुष्टः प्रत्यवतिष्ठते तदधुना कस्मै किमाचक्ष्महे ॥ ७८ ॥
अन्वयः : यस्य हि कृते पाण्डित्यं परिहृत्य बन्दित्वम् आलम्बितम्, यः मनसापि दुष्प्राप्यं पदं गुरुतरैः क्लेशैः प्रापितः, सः दुष्टः तत्र रूढः सकलां पूर्वोपकारावलीं निगीर्य अवतिष्ठते चेत्  तत् अधुना कस्मै किम् आचक्ष्महे ।
For the sake of a person one set aside all the scholarship and became a bard and one got him a position which could not even be thought of. If after getting established in the position that wicked person devours (forgets) all the past help given to him, what shall we say to whom?  [The poet laments the attitude of an ungrateful person.]


परार्थव्यासङ्गादुपजहदपि स्वार्थपरताम्
अभेदैकत्वं यो वहति गुणभूतेषु सततम् ।
स्वभावाद्यस्यान्तः स्फुरति ललितोदात्तमहिमा
समर्थो यो नित्यं स जयतितरां कोऽपि पुरुषः ॥ ७९ ॥
अन्वयः : यः परार्थव्यासङ्गात् स्वार्थपरताम् उपजहत् अपि गुणभूतेषु सततं अभेदैकत्वं वहति, यस्य अन्तः स्वभावात् ललितोदात्तमहिमा स्फुरति, यः नित्यं समर्थः सः कः अपि पुरुषः जयतितराम् ।
That extraordinary person indeed thrives who in association with others, without sacrificing ones own interests, shows a sense of oneness with those full of good qualities, who internally by nature shines with the quality of being charmingly liberal and who is always capable. [By the use of words that are associated with the technical description of a तत्पुरुष compound in Sanskrit grammar, the poet tries to bring out a parallel meaning. तत्पुरुष is a compound where the last member is qualified by its preceding member without losing its own meaning. Details are not of much interest to the general reader.]


वंशभवो गुणवानपि सङ्गविशेषेण पूज्यते पुरुषः ।
न हि तूंबीफलविकलो वीणादण्डः प्रयाति महिमानम् ॥ ८० ॥
अन्वयः : वंशभवः गुणवान् अपि पुरुषः सङ्गविशेषेण पूज्यते । तूम्बीफलविकलः वीणादण्डः महिमानम् न प्रयाति हि ।
A person who is of good descent [वंशभवः] and has good qualities [गुणवान्] is honored if he is associated with the right persons. The beam of Veena (musical instrument) made of bamboo [वंशभवः] and has strings [गुणवान्] will get its respect only in association with the gourd fruit. [ A veena beam made of bamboo with strings across it will make musical sounds only when a spherical dried gourd is attached to it. The poet uses the figure of speech श्लेष to bring out similarity.]  


अमितगुणोऽपि पदार्थो दोषेणैकेन निन्दितो भवति ।
निखिलरसायनमहितो गन्धेनोग्रेण लशुन इव ॥ ८१ ॥
अन्वयः : पदार्थः अमितगुणः अपि निखिलरसायनमहितः अपि लशुनः उग्रेण गन्धेन इव निन्दितः भवति ।
An object of considerable benefit becomes rejected because of a single blemish like garlic which although praised as a total elixir becomes rejected because of its strong smell. [The point of view given in Verse 38 is repeated here.]


उपकारमेव तनुते विपद्गतः सद्गुणो नितराम् ।
मूर्च्छां गतो मृतो वा निदर्शनं पारदोऽत्र रसः ॥ ८२ ॥
अन्वयः : सद्गुणः विपद्गतः नितरां उपकारमेव तनुते । अत्र पारदः रसः मूर्च्छां गतः मृतः वा (उपकारम् एव तनुते इति) निदर्शनम् ।
A person of virtue does good even when he is subjected to difficulties just as mercury is useful even when it is heated for oxidizing it. [ मूर्च्छितः and मृतः are technical terms used with reference to chemical reduction of mercury.  ]



वनान्ते खेलन्ती शशकशिशुमालोक्य चकिता
भुजप्रान्तं भर्तुः भजति भयहर्तुः सपदि या ।
अहो सेयं सीता दशवदननीता हलरदैः
परीता रक्षोभिः श्रयति विवशा कामपि दशाम् ॥ ८३ ॥
अन्वयः : या वनान्ते खेलन्ती शशकशिशुम् आलोक्य चकिता भयहर्तुः भर्तुः भुजप्रान्तं सपदि भजति सा इयम् सीता दशवदननीता हलरदैः रक्षोभिः परीता विवशा काम् अपि दशाम् श्रयति (इति) अहो ।
This Seeta, who got frightened and quickly reached the shoulders of her husband, who could remove her fear when she got frightened by seeing a baby hare while she was playing in the middle of the forest is now, after being brought by Ravana, helpless and has reached an indescribable state surrounded by demons who have plough-like teeth. What a pity! [The poet laments the fate that befell Seeta.]
- - - - 

Saturday, December 8, 2012

Bhamini vilasah-11

भामिनीविलासः-११
आपद्गतः किल महाशयचक्रवर्ती
विस्तारयत्यकृतपूर्वमुदारभावम् ।
कालागुरुर्दहनमध्यगतः समन्तात्
लोकोत्तरं परिमलं प्रकटीकरोति ॥ ७० ॥
अन्वयः : माहाशयचक्रवर्ती आपद्गतः उदारभावम् अकृतपूर्वं विस्तारयति किल । कालागुरुः दहनमध्यगतः लोकोत्तरं परिमलं समन्तात् प्रकटीकरोति ।
A great man displays large heartedness in a manner hitherto not seen when he is in difficulties. The black aguru exhibits extraordinary fragrance all around when amidst fire.


विश्वाभिरामगुणगौरवगुम्फितानां
रोषोऽपि निर्मलधियां रमणीय एव ।
लोकम्पृणैः परिमलैः परिपूरितस्य
काश्मीरजस्य कटुतापि नितान्तरम्या ॥ ७१ ॥
अन्वयः : विश्व-अभिराम-गुण-गौरव-गुम्फितानाम् निर्मलधियां रोषः अपि रमणीयः एव । लोकम्पृणैः परिमलैः परिपूरितस्य काश्मीरजस्य कटुता अपि नितान्त-रम्या ।
Even anger of persons of pure mind whose abundance of lofty virtues charms the world is pleasant only. Even the pungency of saffron which is full of fragrances that delight the world is very pleasing.


लीलालुण्ठितशारदापुरमहासंपन्नराणां पुरः
विद्यासद्मविनिर्गलत्कणमुषो वल्गन्ति चेत् पामराः ।
अद्य श्वः फणिनां शकुन्तशिशवो दन्तावलानां शशाः
सिंहानां च सुखेन मूर्धसु पदं धास्यन्ति शालावृकाः ॥ ७२ ॥
अन्वयः : विद्या-सद्म-विनिर्गलत्-कण-मुषः पामराः लीला-लुण्ठित-शारदापुर-महा-सम्पत्-नराणां पुरः वल्गन्ति चेत्, अद्य श्वः शकुन्त-शिशवः फणिनां मूर्धसु शशाः दन्तावलानां मुर्धसु शालावृकाः सिंहानां मुर्धसु सुखेन पदं धास्यन्ति ।
If the ordinary folk who have stolen a few particles emanating from the repositories of knowledge stroll in front of  persons who have easily looted the riches of the city of scholarship, today or tomorrow baby birds will put their foot with ease on the heads of snakes, hares on the heads of elephants and dogs on the heads of lions! [Persons of limited knowledge should not try to show off in front of the really learned.]


गीर्भिर्गुरूणां परुषाक्षराभिः तिरस्कृता यान्ति नरा महत्त्वम् ।
अलब्धशाणोत्कषणा नृपाणां न जातु मौलौ मणयो वसन्ति ॥ ७३ ॥
अन्वयः : गुरूणां परुषाक्षराभिः गीर्भिः तिरस्कृता नरा महत्त्वं यान्ति । अलब्ध-शाण-उत्कषणा मणयः नृपाणां मौलौ न वसन्ति जातु ।
Persons who have been rebuked through harsh words by their preceptors attain greatness. At no time do gems which have not been rubbed by the whetstone adorn the heads of kings.


वहति विषधरान् पटीरजन्मा
शिरसि मषीपटलं दधाति दीपः ।
विधुरपि भजतेतरां कलङ्कं
पिशुनजनं खलु बिभ्रति क्षितीन्द्राः ॥ ७४ ॥
अन्वयः : पटिरजन्मा विषधरान् वहति; दीपः मषीपटलं दधाति; विधुः अपि कलङ्कं भजतेतराम्; क्षितीन्द्राः पिशुनजनं बिभ्रति खलु ।
Sandal tree carries snakes; lamp carries a coating of lamp-black at its top; even moon carries a black mark; great kings do support slanderers.


 सत्पूरुषः खलु हिताचरणैरमन्दम्
आनन्दयत्यखिललोकमनुक्त एव ।
आराधितः कथय केन करैरुदारैः
इन्दुर्विकाशयति कैरविणीकुलानि ॥ ७५ ॥
अन्वयः : सत्पूरुषः अखिललोकम् अनुक्त एव हिताचरणैः अमन्दम् आनन्दयति खलु । इन्दुः केन आराधितः कैरविणीकुलानि उदारैः करैः विकाशयति?
A good person delights the whole world by his comforting actions without being told (prompted). Worshiped by whom does the moon open up the groups of blue lotuses with his generous rays?


कृतमपि महोपकारं पय इव पीत्वा निरातङ्कम् ।
प्रत्युत हन्तुं यतते काकोदरसोदरखलो जगति ॥ ७६ ॥
अन्वयः : जगति काकोदर-सोदर-खलः कृतं महोपकारं पय इव पीत्वा  प्रत्युत निरातङ्कं हन्तुं यतते ।
In this world the wicked, who is like the brother of a serpent, drinks like milk (benefits from) the great help done to him and without any compunction tries to kill (harm).
- - - - 

Saturday, December 1, 2012

Bhamini vilasah-10

भामिनीविलासः-१०
नीरान्निर्मलतो जनिर्मधुरता वामामुखस्पर्धिनी
वासो यस्य हरेः करे परिमलो गीर्वाणचेतोहरः ।
सर्वस्वं तदहो महाकविगिरां कामस्य चाम्भोरुह
त्वं चेत् प्रीतिमुरीकरोषि मधुपे तत्त्वां किमाचक्ष्महे ॥ ६३ ॥
अन्वयः : अम्भोरुह! जनिः निर्मलतः जलात्; मधुरता वामा-मुख-स्पर्धिनी; यस्य वासः हरेः करे; परिमलः गीर्वाण-चेतो-हरः; तत् महाकविगिरां कामस्य च सर्वस्वम्; अहो, त्वं मधुपे प्रीतिम् उरीकरोषि चेत् तत् त्वां किम् आचक्ष्महे ।
O lotus! (Your) birth is from clear water; your sweetness(beauty) competes with that of a beautiful lady; your dwelling is the hand of Vishnu; your fragrance captivates even the divine beings; All that (your attributes) is the property of  the great poets and the God of love; If you admit of love to a bee, what can we say? [You are so great. If you show warmth to a mere bee what can we say?]



लीलामुकुलितनयनं किं सुखशयनं समातनुषे ।
परिणामविषमहरिणा करिनायक वर्द्धते वैरम् ॥ ६४ ॥
अन्वयः : करिनायक! लीला-मुकुलित-नयनं सुखशयनं किं समातनुषे? परिणाम-विषम-हरिणा वैरं वर्धते ।
O Chief of elephants! How do you sleep comfortably with your eyes playfully closed? Enmity with the lion who can lead you to an unsavoury end is increasing. [The poet seems to be cautioning a king who was ignoring his enemy for long.]



विदुषां वदनाद्वाचः सहसा यान्ति नो बहिः ।
याताश्चेन्न पराञ्चन्ति द्विरदानां रदा इव ॥ ६५ ॥
अन्वयः : वाचः विदुषां वदनात् सहसा बहिः नो यान्ति ।  याताः चेत् द्विरदानां रदा इव न पराञ्चन्ति ।
Words do not come out of the mouth of scholars suddenly. And if they come out, like the tusks of elephants they do not turn back. [Scholars will not retract what they say after deliberation.]


औदार्यं भुवनत्रयेऽपि विदितं संभूतिरम्भोनिधेः
वासो नन्दनकानने परिमलो गीर्वाणचेतोहरः ।
एवं दातृगुरोः गुणाः सुरतरोः सर्वेऽपि लोकोत्तराः
स्यादर्थिप्रवरार्थितार्पणविधावेको विवेको यदि ॥ ६६ ॥
अन्वयः : औदार्यं भुवनत्रये अपि विदितम्; सम्भूतिः अम्भोनिधेः; नन्दनकानने वासः; परिमलः गीर्वाण-चेतो-हरः; अर्थि-प्रवर-अर्थित-अर्पण-विधौ  विवेकः यदि स्यात्, एवं दातृ-गुरोः सुर-तरोः सर्वे अपि गुणाः लोकोत्तराः (स्युः) ।
(Its) generosity is renowned over the three worlds; (its) origin is the ocean; (its) dwelling place is the Nandana garden; (its) fragrance captivates the minds of the divine beings; All these qualities of the Divine-tree (kalpavrksha), which is the preceptor of all donors, would have been outstanding in the world if only there had been discrimination in the method of granting the wishes of the supplicants. [The poet stresses the need for discrimination in meeting the requirements of supplicants by criticizing the divine-tree which is supposed to fulfill all wishes.]


एको विश्वसतां हराम्यपघृणः प्राणानहं प्राणिनाम्
इत्येवं परिचिन्त्य मा स्वमनसि व्याधाऽनुतापं कृथाः ।
भूपानां भवनेषु किं च विमलक्षेत्रेषु गूढाशयाः
साधूनामरयो वसन्ति कति नो त्वत्तुल्यकक्षाः खलाः ॥ ६७ ॥
अन्वयः : व्याध! अहम् एकः अपघृणः विश्वसतां प्राणिनां प्राणान् हरामि इति एवं परिचिन्त्य स्वमनसि अनुतापं मा कृथाः । त्वत्तुल्यकक्षाः खलाः साधूनाम् अरयः गूढाशयाः भूपानां भवनेषु किं च विमलक्षेत्रेषु कति नो वसन्ति?
O hunter! Do not grieve in your mind by thinking, “I am the only one without compassion, who takes the lives of animals who repose trust. “
How many are not there in the palaces of kings and in holy places who are equal to you in deceit, who are enemies of the virtuous and who have secret longings? [ A satirical verse about the type of people  who move around kings and in holy places.]


विश्वास्य मधुरवचनैः साधून् ये वञ्चयन्ति नम्रतमाः ।
तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ ६८ ॥
अन्वयः : मातः काश्यपि! ये नम्रतमाः साधून् मधुरवचनैः विश्वास्य वञ्चयन्ति, तानपि दधासि । तव अपि विवेकः च यातः ।
Mother earth! You support even those who, bent low, cheat the virtuous by their sweet words. You have also lost the power of discrimination also.


अन्या जगद्धितमयी मनसः प्रवृत्तिः अन्यैव कापि रचना वचनावलीनाम् ।
लोकोत्तरा च कृतिराकृतिरार्तहृद्या विद्यावतां सकलमेव गिरां दवीयः ॥ ६९ ॥
अन्वयः : मनसः प्रवृत्तिः जगद्-हितमयी अन्या; वचनावलीनाम् रचना का अपि अन्या; कृतिः लोकोत्तरा; आकृतिः आर्तहृद्या; विद्यावतां सकलम् एव गिरां दवीयः ।
Everything of the educated is far beyond words. Their mental outlook which comforts the whole world is special; their way of speech is indescribably different; their actions are extra-ordinary; their form is pleasing to the afflicted. [The poet now changes over to wise sayings.]
- - - -

Saturday, November 24, 2012

Bhamini-vilasah-9

भामिनीविलासः-९
लूनं मत्तमतङ्गजैः कियदपि च्छिन्नं तुषारार्दितैः
शिष्टं ग्रीष्मजभानुतीक्ष्णकिरणैः भस्मीकृतं काननम् ।
एषा कोणगता मुहुः परिमलैरामोदयन्ती दिशो
हा कष्टं ललिता लवङ्गलतिका दावाग्निना दह्यते ॥ ५६ ॥
अन्वयः : काननं मत्तमतङ्गजैः लूनम्, कियत् अपि तुषार-अर्दितैः छिन्नं, शिष्टं ग्रीष्मज-भानु-तीक्ष्ण-किरणैः भस्मीकृतम्, एषा कोणगता दिशः मुहुः परिमलैः आमोदयन्ती ललिता लवङ्गलतिका दावाग्निना दह्यते । हा, कष्टम् ।
The forest has been cut down by elephants in rut, some of it has been destroyed by the ravages of snow, rest of it has been burnt to ashes by the fierce rays of summer sun, this tender clove plant in a corner of the forest which is spreading fragrance in all directions repeatedly is being burnt by forest fire. What a pity! [Cruel fate did not leave even the fragrant clove plant which was in some inconspicuous corner of the forest.]


स्वर्लोकस्य शिखामणिः सुरतरुग्रामस्य धामाद्भुतम्
पौलोमीपुरुहूतयोः परिणतिः पुण्यावलीनामसि ।
सत्यं नन्दन किन्त्विदं सहृदयैर्नित्यं विधिः प्रार्थ्यते
त्वत्तः खाण्डवरङ्गताण्डवनटो दूरेऽस्तु वैश्वानरः ॥ ५७ ॥
अन्वयः : नन्दन! (त्वं) स्वर्लोकस्य शिखामणिः, सुरतरुग्रामस्य अद्भुतं धाम, पौलोमी-पुरुहूतयोः पुण्यावलीनाम् परिणतिः असि, सत्यम् । किम् तु, विधिः सहृदयैः नित्यम् इदम् प्रार्थ्यते, खाण्डव-रङ्ग-ताण्डव-नटः वैश्वानरः त्वत्तः दूरे अस्तु ।
O Nandana garden! You are indeed the crest jewel of the world of the divine beings; you are the amazing residence for the groups of Divine trees. You are the result of the meritorious deeds of Indra and his wife, true. But well-wishers are daily praying to fate only this: may not Fire which danced wildly on the dais of Khandava forest  be far  removed from you. [ Nandana is the mythical garden of Indra. The reference is to the burning of Khandava forest by Fire God, in an episode of Mahabharata. The poet suggests that a person who is admired by all should not fall a prey to an evil force which could destroy him.]


स्वस्वव्यापृतिमग्नमानसतया मत्तो निवृत्ते जने
चञ्चूकोटिविपाटितार्गलपुटो यास्याम्यहं पञ्जरात् ।
एवं कीरवरे मनोरथमयं पीयूषमास्वादय-
त्यन्तः संप्रविवेश वारणकराकारः फणिग्रामणीः ॥ ५८ ॥
अन्वयः : जने स्व-स्व-व्यापृति-मग्न-मानसतया मत्तः निवृत्ते, अहं चञ्चू-कोटि-विपाटित-अर्गल-पुटः पञ्जरात् यास्यामि एवम् कीरवरे मनोरथमयं पीयूषम् आस्वादयति, वारण-कर-आकारः फणि-ग्रामणीः अन्तः संप्रविवेश ।
“When people, minding their own activities, go away from me, I will go out of the cage after removing the leaf of the bolt with my beak.” Thus while the precious parrot was tasting the ambrosia of its wishes, a big serpent of the size of an elephant’s tusk entered into the cage. [How cruel fate spoils ones plans is nicely brought out by this instance. It echoes the famous saying:
रात्रिर्र्गमिष्यति भविष्यति सुप्रभातम्
भास्वानुदेष्यति हसिष्यति पङ्कजश्रीः ।
इत्थं विचिन्तयति कोशगते द्विरेफे
हा हन्त हन्त नलिनीं गज उज्जहार ॥ ]  


रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलाम्
एतामम्बुधगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् ।
अत्रैवोच्छलदम्बुनिर्भरमहावर्तैः समावर्तितो
यद्ग्राहेण रसातलं पुनरसौ नीतो गजग्रामणीः ॥ ५९ ॥ 
अन्वयः : रे चाञ्चल्यजुषः श्रितनगाः मृगाः, कल्लोल-माला-आकुलाम् एताम् अम्बुदगामिनीम् सङ्गाहितुम् कथम् वा व्यवसिताः? यत् अत्र एव असौ गजग्रामणीः उच्छलत्-अम्बु-निर्भर-महावर्तैः समावर्तितः ग्राहेण पुनः रसातलं नीतः ।
O mountain-dwelling deer who enjoy unsteadiness! How are you engaged in diving into this sea-joining river, which is disturbed by a series of waves? Here only has this chief of elephants which was forced back by huge violent waves been again drawn into the netherworld by the crocodile. [The poet  warns innocent persons not to enter into an area of influence of a ruthless dangerous person.]


पिब स्तन्यं पोत त्वमिह मददन्तावलधिया
दृगन्तानाधत्से किमिति हरिदन्तेषु परुषान् ।
त्रयाणां लोकानामपि हृदयतापं परिहरन्
अयं धीरं धीरं ध्वनति नवनीलो जलधरः ॥ ६० ॥
अन्वयः : पोत! इह स्तन्यं पिब । मद-दन्तावल-धिया परुषान् दृक्-अन्तान् हरित्-अन्तेषु किम् इति आधत्से? अयं नवनीलः जलधरः त्रयाणां लोकानाम् अपि हृदयतापं परिहरन् धीरं धीरं ध्वनति ।
O cub (of a lion)! Suckle the milk. Why do you look fiercely through the corner of your eyes in all directions, thinking that there is an elephant in rut (somewhere around)? The fresh blue cloud majestically roars removing the heat of all the three worlds. [Do not get unnecessarily worked up that your eternal enemy has come. It is only the sound of a benevolent person.] 


धीरध्वनिभिरलं ते नीरद मे मासिको गर्भः ।
उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ॥ ६१ ॥
अन्वयः : नीरद! ते धीरध्वनिभिरलम् । मे मासिकः गर्भः उन्मदवारणबुद्ध्या मध्येजठरं समुच्छलति ।
O cloud! Enough of your majestic rumblings. My one month  old cub in womb is jumping up thinking that there is an elephant in rut. [A pregnant lioness says thus. The baby is already getting ready to fight an elephant.]


वेतण्डगण्डकण्डूतिपांडित्यपरिपन्थिना ।
हरिणा हरिणालीषु कथ्यतां कः पराक्रमः ॥ ६२ ॥
अन्वयः : वेतण्ड-गण्ड-कण्डूति-पाण्डित्य-परिपन्थिना हरिणा हरिण-आलीषु कः पराक्रमः? कथ्यताम् ।
What sort of display of prowess can there be in front of a group of deer for a lion which is competing with the itching sensation on the hump of an elephant in rut? Tell.[The lion is always looking forward to a fight with an elephant in rut to neutralize the itch that an elephant gets on its hump when in rut. Deer are no match.]
- - - - 

Saturday, November 17, 2012

Bhamini vilasah-8

भामिनीविलासः-८
भुक्ता मृणालपटली भवता निपीता-
न्यम्बूनि यत्र नलिनानि निषेवितानि ।
रे राजहंस वद तस्य सरोवरस्य
कृत्येन केन भवितासि कृतोपकारः ॥ ४८ ॥
अन्वयः: रे राजहंस! भवता यत्र मृणालपटली भुक्ता, अम्बूनि निपीतानि, नलिनानि निषेवितानि, तस्य सरोवरस्य केन कृत्येन कृतोपकारः भविता असि? वद ।
O Royal swan! By which act will you repay your debt of gratitude to the lake, where you ate bunches of lotus fibres, drank water and enjoyed  the lotuses? Tell. [ It is not possible to repay the debt of gratitude one owes to certain people.]


एणीगणेषु गुरुगर्वनिमीलिताक्षः
किं कृष्णसार खलु खेलसि काननेऽस्मिन् ।
सीमामिमां कलय भिन्नकरीन्द्रकुम्भ-
मुक्तामयीं हरिविहारवसुन्धरायाः ॥ ४९ ॥
अन्वयः : कृष्णसार! गुरुगर्वनिमीलिताक्षः एणीगणेषु अस्मिन् कानने किं खेलसि? भिन्न-करीन्द्र-कुम्भ-मुक्तामयीम् इमां सीमाम् हरि-विहार-वसुन्धरायाः (इति) कलय ।
O spotted antelope! With eyes closed due to great pride, why do you play in this forest with groups of does? Count this area which is full of gems spilt from the forehead of great elephants, as the playground of a lion. [This is not a place fit for you. This is the place of a lion which has killed elephants and has spread the gems from the head of killed elephants all over the place. This is directed to a weak person who is trying to show off at a place where powerful persons live.] 


जठरज्वलनज्वलताप्यपगतशङ्कं समागतापि पुरः ।
करिणामरिणा हरिणाली हन्यतां नु कथम् ॥ ५० ॥
 अन्वयः : जठर-ज्वलन-ज्वलता करिणाम् अरिणा हरिण-अली अपगत-शङ्कम् समागता अपि कथम् नु हन्यताम्?
How will a lion, the enemy of elephants, burning with the fire of stomach (feeling acute hunger), kill the group of deer which has come in front without any hesitation? [Directed to some powerful person advising him not to hurt the helpless when they come seeking his shelter. Note the alliteration –यमक- in करिणामरिणाहरिणा.]

येन भिन्नकरिकुम्भविस्खलन्मौक्तिकावलिभिरञ्चिता मही ।
अद्य तेन हरिणान्तके कथं कथ्यताम् नु हरिणा पराक्रमः ॥ ५१ ॥
अन्वयः : येन करिणा मही भिन्न-करि-कुम्भ-विस्खलत्-मौक्तिक-आवलिभिः अञ्चिता, तेन अद्य पराक्रमः हरिणान्तके कथं नु कथ्यताम् ?
How can the lion which spread on the ground groups of gems falling out of the broken foreheads of elephants, talk of its valour in front of a deer? [ It is not right for a person of great valour to show his strength in front of a weak person.]


स्थितिं नो रे दध्याः क्षणमपि मदान्धेक्षण सखे
गजश्रेणीनाथ त्वमिह जटिलायां वनभुवि ।
असौ कुम्भिभ्रान्त्या खरनखरविद्रावितमहा-
गुरुग्रावग्रामः स्वपिति गिरिगर्भे हरिपतिः ॥ ५२ ॥
अन्वयः : रे गजश्रेणीनाथ मदान्धेक्षण सखे!, त्वम् इह जटिलायां वनभुवि क्षणमपि स्थितिं नो दध्याः । असौ हरिपतिः कुम्भि-भ्रान्त्या खर-निखर-विद्रावित-महा-गुरु-ग्राव-ग्रामः गिरिगर्भे स्वपिति ।
Dear Leader of elephant group who is blind with pride! Do not stay in this dense forest even for a moment. Here deep in these hills sleeps the chief of lions, who mistaking for an elephant has scattered heaps of large boulders by its sharp nails. [Apparently it is a warning to a weakling to beware of a much stronger enemy.]


गिरिगह्वरेषु गुरुगर्वगुम्फितो
गजराजपोत न कदापि सञ्चरेः ।
यदि बुध्यते हरिशिशुः स्तनन्धयो
भविता करेणुपरिशेषिता मही ॥ ५३ ॥
अन्वयः : गजराजपोत! गुरुगर्वगुम्फितः गिरिगह्वरेषु कदा अपि न सञ्चरेः । यदि स्तनन्धयः हरिशिशुः बुध्यते, मही करेणु-परिशेषिता भविता ।
O Child of chief elephant! Puffed up by great pride do not ever move around the caves of the hill. If the suckling infant of the lion comes to know, there will be only she elephants left in this world. [The sentiment of warning expressed in the previous verse is repeated in a different way.]


निसर्गादारामे तरुकुलसमारोपसुकृती
कृती मालाकारो बकुलमपि कुत्रापि निदधे ।
इदं को जानीते यदयमिह कोणान्तरगतो
जगज्जालं कर्ता कुसुमभरसौरभ्यभरितम् ॥ ५४ ॥
अन्वयः : तरुकुलसमारोपसुकृती कृती मालाकारः निसर्गात् बकुलम् अपि कुत्र अपि निदधे । यत् कोणान्तरगतः अयम् इह जगज्जालं कुसुम-भर-सौरभ्य-भरितं कर्ता. इदं कः जानीते ।
The gardener who was competent in growing groups of trees planted the Bakula creeper somewhere (in the garden) by nature (as was his wont). Who knows (knew) that this creeper would make the whole connected world full of its heavy fragrance? [A talented person who grows up in an unknown corner of the world can become famous.] 


यस्मिन् वेल्लति सर्वतः परिचलत्कल्लोलकोलाहलैः
मन्थाद्रिभ्रमणभ्रमं हृदि हरिद्दन्तावलाः पेदिरे ।
सोऽयं तुङ्गतिमिङ्गिलाङ्गकवलीकारक्रियाकोविदः
क्रोडे क्रीडतु कस्य केलिकलहत्यक्तार्णवो राघवः ॥ ५५ ॥
अन्वयः : यस्मिन् सर्वतः परिचलत्-कल्लोल-कोलाहलैः वेल्लति, हरित्-दन्तावलाः हृदि मन्थाद्रि-भ्रमण-भ्रमं पेदिरे, सः तुङ्ग-तिमिङ्गिला-अङ्ग-कवलीकार-क्रिया-कोविदः अयं राघवः केलि-कलह-त्यक्त-अर्णवः कस्य क्रोडे क्रीडतु?
The great fish, Raghava, while he moved around creating a commotion of circling waves caused the elephants guarding the eight directions –दिग्गज- a delusion in their minds that the Manthara mountain was rotating. In which trough can that fish who was an expert in devouring the parts of large whales play if it leaves the ocean due to a love-quarrel? [राघव is a type of large fish. दन्तावल=elephant. The verse seems to refer to some specific instance where a renowned and valourous person had to flee his country due to a petty quarrel.]
- - - -  

Saturday, November 10, 2012

Bhamini vilasah-7

भामिनीविलासः-७
साकं ग्रावगणैर्लुठन्ति मणयस्तीरेऽर्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान् निद्राति नारायणः ।
एवं वीक्ष्य तवाविवेकमपि च प्रौढिं परामुन्नतेः
किं निन्दान्यथवा स्तवानि कथय क्षीरार्णव त्वामहम् ॥ ४१ ॥
अन्वयः : क्षीरार्णव! (तव) तीरे अर्कबिम्बोपमा मणयः ग्रावगणैः साकं लुठन्ति । नीरे सः भगवान् नारायणः नीरचरैः समं निद्राति । एवं तव अविवेकम् अपि उन्नतेः प्रौढिं च वीक्ष्य किं अहं त्वां निन्दानि अथवा स्तवानि? कथय ।
O Ocean of milk! On your shores gems which are like sun’s orb lie side by side of heaps of stones. In your waters, the great Lord Narayana sleeps along with other aquatic animals. Seeing thus your lack of discretion and the great heights you have attained, shall I find fault with you or praise you? [This refers to some person who although great cultivates the company of the lowly.]


किं खलु रत्नैरेतैः किं पुनरभ्रायितेन वपुषा ते ।
सलिलमपि यन्न तावकम् अर्णव वदनं प्रयाति तृषितानाम् ॥ ४२ ॥
अन्वयः : अर्णव! एतैः रत्नैः किम्? पुनः ते अभ्रायितेन वपुषा किं ? यत् तावकं सलिलं तृषितानां वदनं न प्रयाति ।
Ocean! Of what use are these gems? Of what use is your sky-like body? Your water does not enter the mouths of the thirsty. [Any so called great person is worthless if he does not help the needy.]


इयत्त्यां सम्पत्तावपि च सलिलानां त्वमधुना
न तृष्णामार्तानां हरसि यदि कासार सहसा ।
निदाघे चण्डांशौ किरति परितोऽङ्गारनिकरम्
कृशीभूतः केषामहह परिहर्तासि खलु ताम् ॥ ४३ ॥
अन्वयः : कासार! अधुना सलिलानां इयत्त्यां सम्पत्तौ अपि त्वम् आर्तानां तृष्णां सहसा यदि न हरसि, निदाघे चण्डांशौ परितः अङ्गारनिकरं किरति, कृशीभूतः केषां (आर्तानां) तां (तृष्णां) परिहर्ता असि खलु ? अहह ।
O Lake, Even when there is so much of water wealth if you are not able to quickly quench the thirst of the distressed, in summer when the sun spreads around embers of charcoal, whose thirst can you, having become emaciated, quench? [If a person when he has much wealth does not share it with the needy, how can you expect him to be helpful when he falls into bad times?]


अयि रोषमुरीकरोषि नो चेत् किमपि त्वां प्रति वारिधे वदामः ।
जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान् न हा जहासि ॥ ४४ ॥
अन्वयः: अयि वारिधे! यदि रोषं नो उरीकरोषि चेत्, त्वां प्रति किमपि वदामः । तव अर्थिना जलदेन विमुक्तानि अपि तोयानि, महान् (त्वं) न जहासि । हा ।
Dear Ocean, if you do not get angry we tell you something about you. You do not leave the water that your supplicant cloud releases. Alas! [Although clouds draw water from the ocean, ocean does not hesitate to collect the water released by the cloud. The poet suggests a situation where a benefactor stoops to collect what his supplicants had thrown away.]


न वारयामो भवतीं विशन्तीम् वर्षानदि स्रोतसि जह्नुजायाः ।
न युक्तमेतत्तु पुरो यदस्याः तरङ्गभङ्गान् प्रकटीकरोषि ॥ ४५ ॥
अन्वयः : वर्षानदि! जह्नुजायाः स्रोतसि विशन्तीं भवतीं न वारयामः । अस्याः पुरः तरङ्गभङ्गान् प्रकटीकरोषि (इति) यत्, एतत् तु न युक्तम् ।
O storm water! We do not obstruct your entering into the stream of Ganga. But displaying your folds of waves in front of her is not correct. [A common man can certainly be in the presence of a great person. But displaying his capabilities in front of the great is ill manners.]



पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहाम्
येनाघ्रातसमुज्झितानि कुसुमान्याजघ्रिरे निर्जरैः ।
तस्मिन्नद्य मधुव्रते विधिवशान्माध्वीकमाकांक्षति
त्वं चेदञ्चसि लोभमम्बुज तदा किं त्वां प्रति ब्रूमहे ॥ ४६ ॥
अम्बुज! पौलोमीपतिकानने विलसतां गीर्वाणभूमीरुहां कुसुमानि येन आघ्रात- -समुज्झितानि निर्जरैः आजघ्रिरे, तस्मिन् मधुव्रते अद्य विधिवशात् माध्वीकम् आकांक्षति त्वं लोभम् अञ्चसि चेत्, त्वां प्रति किं ब्रूमहे ।
O Lotus! If you display miserliness to a bee which is now, as fate would have it, seeking honey (from you) what shall we speak about you? Even divine beings were smelling the flowers of the divine trees which had been smelt and abandoned by this bee in the garden of Indra. [It is not an ordinary bee. It had seen better days when it used to dwell on the flowers of Indra’s garden. It should be treated with generous hospitality. Apparently the poet has in mind a parallel where a person of eminence who had seen better days is forced to seek shelter with an ordinary person.]


प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरी-
पुञ्जे मञ्जुलगुञ्जितानि रचयन् तानातनोरुत्सवान् ।
तस्मिन्नद्य रसालशाखिनि दृशां दैवात् कृशामञ्चति
त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥ ४७ ॥
अन्वयः: चञ्चरीक! कुसुमाकरस्य प्रारम्भे यस्य उल्लसत्-मञ्जरी-पुञ्जे मञ्जुल-गुञ्जितानि परितः रचयन् तान् उत्सवान् आतनोः, तस्मिन् रसाल-शाखिनि दैवात् दृशाम् कृशाम् अञ्चति, त्वं विनयं मुञ्चसि चेत् त्वदन्यः नीचः कः अस्ति?
O bee! At the advent of spring how well you celebrated by humming sonorously all around in the bunches of new shoots that were appearing in the mango tree! When due to quirk of fate that mango tree looks emaciated, if you were to lose your regard (for it), who could be more worthless than you? [Apparently the poet finds fault with someone who was only a friend in fine weather.]
- - - - 

Saturday, November 3, 2012

Bhamini-vilasah-6

भामिनीविलासः-६
दधानः प्रेमाणं तरुषु समभावेन विपुलम्
न मालाकारोऽसौ अकृत करुणां बालवकुले ।
अयं तु द्रागुद्यत्कुसुमनिकराणां परिमलैः
दिगन्तानातेने मधुपकुलझङ्कारभरितान् ॥ ३३ ॥
अन्वयः : असौ मालाकारः तरुषु समभावेन विपुलं प्रेमाणं दधानः बाल-वकुले करुणां न अकृत । अयं तु द्राक् उद्यत्-कुसुम-निकराणां परिमलैः दिगन्तान् मधुप-कुल-झङ्कार-भरितान् आतेने ।
This gardener, who shared his immense love towards trees equally did not show compassion at the young Vakula plant. This Vakula plant quickly filled up all the directions with the humming of the swarms of bees through the spread of the fragrance of springing bunches of (its) flowers. [The poet notices that although the gardener has neglected to water a Vakula plant adequately, the plant has brought forth its fragrant bunches of flowers, attracting swarms of bees all around. A parallel human situation like the following comes to the mind of the reader. A student by his own brilliance may shine despite teacher not devoting his attention to the student adequately.]


मूलं स्थूलमतीवबन्धनदृढं शाखाः शतं मांसलाः
वासो दुर्गमहीधरे तरुपते कुत्रास्ति भीतिस्तव ।
एकः किंतु मनागयंजनयति स्वान्ते ममाधिज्वरम्
ज्वालालीवलयीभवन्नकरुणो दावानलो घस्मरः ॥ ३४ ॥
अन्वयः: तरुपते, तव मूलम् अतीव बन्धनदृढं स्थूलं, शतं शाखाः मांसलाः, वासः दुर्गमहीधरे । तव भीतिः कुत्र अस्ति? किंतु अयम् एकः मनाक् मम स्वान्ते आधिज्वरं जनयति:-अकरुणः घस्मरः दावानलः ज्वाला-अली-वलयी-भवन् (अस्ति) ।
O Chief of trees! Your roots are firm and well bonded (to the earth); your hundreds of branches are brawny; you live in a formidable mountain. What fear do you have? Yet I get perturbed in my mind that this gluttonous forest fire is encircling with its chain of flames. [There is someone who can threaten the mighty too.]


ग्रीष्मे भीष्मतरैः करैर्दिनकृता दग्धोऽपि यश्चातकः
त्वां ध्यायन् घनवासरान् कथमपि द्राघीयसो नीतवान् ।
दैवाल्लोचनगोचरेण भवता तस्मिन् इदानीं यदि
स्वीचक्रे करकानिपातनकृपा तत् कं प्रति ब्रूमहे ॥ ३५ ॥
अन्वयः : यः चातकः ग्रीष्मे दिनकृता भीष्मतरैः करैः दग्धः अपि, त्वां ध्यायन् द्राघीयसः घनवासरान् कथमपि नीतवान् । इदानीं तस्मिन् दैवात् लोचनगोचरेण भवता यदि करकानिपातनकृपा स्वीचक्रे तत् कं प्रति ब्रूमहे?
The Chataka bird, somehow spends the long and dense days thinking about you, despite being scalded by the fierce rays of the sun in summer. Now, o cloud! when you are in sight providentially, if you shower him with your kindness in the form of hail stones, whom shall we speak about it? [ Poet laments about the harsh treatment a person gets from a dignitary on whom the former is dependent.]


दवदहनजटालज्वालजालाहतानाम्
परि गलितलतानां म्लायतां भूरुहाणाम् ।
अपि जलधर शैलश्रेणिशृङ्गेषु तोयम्
वितरसि बहु कोऽयं श्रीमदस्तावकीनः ॥ ३६ ॥

अन्वयः : जलधर! दव-दहन-जटाल-ज्वाल-जाल-आहतानाम् गलितलतानाम् म्लायतां भूरुहाणाम् परि, अपि शैल-श्रेणि-शृङ्गेषु तोयम् बहु वितरसि, तावकीनः कः अयं श्री-मदः?
Cloud! What sort of a haughtiness of wealth do you display that you shower rains copiously on the peaks of mountain ranges while you neglect the parched trees with fallen branches devastated by the flames of swirling forest fire?


शृण्वन् पुरः परुषगर्जितमस्य हन्त
रे पान्थ विस्मितमना न मनागपि स्याः ।
विश्वार्तिवारणसमर्पितजीवितोऽयम्
नाकर्णितः किमु सखे भवताम्बुवाहः ॥ ३७ ॥
अन्वयः : रे पान्थ! अस्य परुषगर्जितम् पुरः शृण्वन्, मनाक् अपि न विस्मितमना स्याः । हन्त, सखे! भवता अयम् अम्बुवाहः विश्वार्ति-वारण-समर्पित-जीवितः (इति) न किमु आकर्णितः?
Dear traveler! Do not get disturbed even to the slightest extent hearing the harsh sound of this (cloud). Alas, friend! Have you not heard (of the fact) that the cloud’s life is dedicated to the cause of preventing the suffering of this world? [ One should not judge a person by the tone of his voice.]


सौरभ्यं भुवनत्रयेऽपि विदितं शैत्यं तु लोकोत्तरम्
कीर्तिः किं च दिगङगनाङ्गणगता किन्त्वेतदेकं शृणु ।
सर्वानेव गुणानियं निगिरति श्रीखण्ड ते सुन्दरान्
उज्झन्ती खलु कोटरेषु गरलज्वालां द्विजिह्वावली ॥ ३८ ॥
अन्वयः : श्रीखण्ड! ते सौरभ्यं भुवनत्रये अपि विदितं, शैत्यं तु लोकोत्तरम्, किं च कीर्तिः दिगङ्गना-अङ्गण-गता । किन्तु एतत् एकं शृणु । ते सुन्दरान् एव गुणान् इयं द्विजिह्वावली कोटरेषु गरलज्वालां उज्झन्ती निगिरति ।
Sandal tree! Your fragrance is known through out the three worlds. Your coolness is extraordinary. Your fame has spread in all directions. But listen to this one thing. Groups of snakes emitting flames of poison in (your) hollows swallow all your good qualities. [The poet employs the myth of snakes living in the hollows of sandal wood tree to bring home the truth that one blemish will eclipse a whole lot of good qualities. This is in contrast to Kalidasa’s well known statement: एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः|  Poets generalize on what suits the occasion! ]
  
नापेक्षा न च दाक्षिण्यं न प्रीतिर्न च सङ्गतिः ।
तथापि हरते तापं लोकानामुन्नतो घनः ॥ ३९ ॥
अन्वयः : न अपेक्षा, न च दाक्षिण्यम्, न प्रीतिः, न च सङ्गतिः (अस्ति) । तथापि लोकानाम् उन्नतः घनः तापं हरते ।
It has no desire (for anything); it has no agreement (with any one); it has no love (towards any one); it has no companionship (with any one). Even then, staying well above all, the cloud (the great) removes distress. [By raining all over, clouds remove distress of all living beings, without any expectations.]


समुत्पत्तिः स्वच्छे सरसि हरिहस्ते निवसतिः
विलासः पद्मायाः सुरहृदयहारी परिमलः ।
गुणैरेतैरन्यैरपि च ललितस्याम्बुज तव
द्विजोत्तंसे हंसे यदि रतिरतीवोन्नतिरियम् ॥ ४० ॥
अन्वयः : अम्बुज! तव समुत्पत्तिः स्वच्छे सरसि, निवसतिः हरिहस्ते, , परिमलः सुरहृदयहारी । (त्वं) पद्मायाः विलासः । एतैः अन्यैः अपि च गुणैः ललितस्य तव द्विजोत्तंसे हंसे यदि रतिः (भवेत्), इयम् अतीव उन्नतिः ।
O Lotus! Your origin is a clean lake; your dwelling is the hand of Vishnu; your fragrance steals the hearts of divine beings. You are the abode of Goddess Lakshmi. You are charming endowed by these and other qualities. If you get interested in the swan which is best among birds, it would be indeed great. [The use of words द्विजोत्तंस and हंस suggest a realized soul among Brahmins. The poet perhaps addresses through this अन्योक्ति a cultured and well known king suggesting that it would be appropriate if he cultivates the company of a specific great realized soul.]
- - - -